श्रीपूर्णानन्दाष्टकम्
पावनं परमं पुण्यं पद्मपत्रमिव स्थितम् ।
पूर्णप्रेमप्रदातारं पूर्णानन्दं नमाम्यहम् ॥१॥
सुखदं शान्तिदं सौम्यं सच्चिदानन्दविग्रहम् ।
सारासारप्रवक्तारं पूर्णानन्दं नमाम्यहम् ॥२॥
भजनं भाजनं भव्यं भक्तभावप्रदर्शकम् ।
भक्तानन्दकरं भव्यं पूर्णानन्दं नमाम्यहम् ॥३॥
मानदं मोहकं मुख्यं मानातीतं मनोहरम् ।
भुक्तिमुक्तिप्रदातार पूर्णानन्दं नमाम्यहम् ॥४॥
तार्किकं तर्कहन्तारं तर्कातीतं तु तुष्टिदम् ।
न्यस्तदण्डं तुरीयं तं पूर्णानन्दं नमाम्यहम् ॥५॥
परात्परं परातीतं पालकं परमेश्वरम् ।
पुरीनिवासिनं पुण्यं पूर्णाननदं नमाम्यहम् ॥६॥
लौकिकं वैदिक शास्त्रं ज्ञानविज्ञानसंयुतम् ।
भक्तान् शिक्षयते यस्तं पूर्णानन्दं नमाम्यहम् ॥७॥
लेह्य चोष्यं च पेयं च चयं भोज्यं तथैव च ।
भुङक्त भोजयते यस्तं पूर्णानन्दं नमाम्यहम् ॥८॥
फलम्
पुण्यं पापहरं स्तोत्रं यः पठेत् भक्तिभावतः ।
न तस्य भयमायाति न दुःखं न पराभवम् ॥
No comments:
Post a Comment